|
|
 हम धर्म को चरित्र-निर्माण का सीधा मार्ग और सांसारिक सुख का सच्चा द्वार समझते हैं। हम देश-भक्ति को
सर्वोत्तम शक्ति मानते हैं जो मनुष्य को उच्चकोटि की निःस्वार्थ सेवा करने की
ओर प्रवृत्त करती है।
- मालवीय जी
|
|
अनुशासनम्
सत्यं वद। धर्मं चर। स्याध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम् ।
मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। राष्ट्रदेवो भव। यान्यनवद्यानि कर्माणि तानि सेवितव्यानि। नो इतराणि। यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि। नो इतराणि। ये के चास्मच्छेªयांसो ब्राह्माणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । आसनं दत्वा तेषां सम्मानो विधेयः ।
श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् । संविदा देयम् ।
अथ यदि ते कर्मविचिकित्सा वा स्यात् । ये तत्र ब्राह्माणाः सम्मर्शिनः, युक्ता अयुक्ता अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः ।
अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः सम्मर्शिनः युक्ता आयुक्ता अलूक्षा धर्मकामाः स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः ।
एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। वतमेवैतदुपास्यम्।
भो स्नातकाः एवम् एतत् मनसि दृढं निधाय युष्माभिः सदा सच्छीले समुदाचारे च वर्तितव्यम्।
|
|
|
|